|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.54. अध्यायः 054
Mahabharata - Karna Parva - Chapter Topics
अर्जुनेन दण्डदण्डधारयोर्वधः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-54-0x(4974)(57707)
अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः।
रथनागाश्वपत्तीनां दण्डधारेण वध्यताम्॥ 8-54-1(57708)
निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत्।
वाहयन्नेव तुरगान्गरुडानिलरंहसः॥ 8-54-2(57709)
मागधोऽसावतिक्रान्तो द्विरदेन प्रमाथिना।
भगदत्तादनवमः शिक्षया च बलेन च॥ 8-54-3(57710)
एनं हत्वा निहन्ताऽसि पुनः संशप्तकानिति।
वाक्यान्ते प्रापयत्पार्थं दण्डधारगजं प्रति॥ 8-54-4(57711)
स मागधानां प्रवरो महाबलोऽ--
शुभग्रहो योधगणैः समन्वितः।
सपत्नसेनां प्रममाथ दारुणो
भीमं समग्रां बलवानिव ग्रहम्॥ 8-54-5(57712)
सुकल्पितं दानवनागसन्निभं
महाभ्रनिर्हादसमस्वनं रणे।
समास्थितो नागवरं नरेश्वरो
रथाश्वमातङ्गनरप्रमाथिनम्॥ 8-54-6(57713)
स नागयन्तॄन्समरे महारथा--
न्सपत्तिसङ्घांस्तुरगान्ससादिनः।
द्विपांश्च बाणैर्निजघान वीर्यवा--
न्समन्ततो घ्नन्निव कालचक्रवत्॥ 8-54-7(57714)
नरांस्तु कांस्यायसवर्मभूषणा--
न्निपात्य साश्वानपि पत्तिभिः सह।
व्यपोथयद्दन्तिवरेण शुष्मिणा
सशब्दवत्स्थूलनलं यथा तथा॥ 8-54-8(57715)
अथार्जुनो ज्यातलनेमिनिःस्वने
मृदङ्गभेरीबहुशङ्खनादिते।
रथाश्वमातङ्गसहस्रनादिते
रथोत्तमेनाभ्यपतद्द्विपोत्तमम्॥ 8-54-9(57716)
ततोऽर्जुनं द्वादशभिः शरोत्तमै--
र्जनार्दनं षोडशभिः समार्पयत्।
स दण़्डधारस्तुरगांस्त्रिभिस्त्रिभि---
स्ततो ननाद प्रजहास चासकृत्॥ 8-54-10(57717)
ततोऽस्य पार्थः सगुणेषुकार्मुकं
चकर्त भल्लैर्ध्वजमप्यलङ्कृतम्।
पुनर्नियन्तॄन्सहपादगोप्तृभि--
स्ततः स चुक्रोध गिरिव्रजेश्वरः॥ 8-54-11(57718)
ततोऽर्जुनं भिन्नकटेन दन्तिना
घनाघनेनानिलतुल्यरंहसा।
अतीव चुक्रोधयिषुर्जनार्दनं
घनञ्जयं चाभिजघान तोमरैः॥ 8-54-12(57719)
अथास्य बाहू द्विपहस्तसन्निभौ
शिरश्च पूर्णेन्दुनिभाननं त्रिभिः।
क्षुरैः प्रचिच्छेद सहैव पाण्डव--
स्ततो द्विपं बाणशतैः समर्पयत्॥ 8-54-13(57720)
स पार्थबाणैस्तपनीयभूषणैः
समावृतः काञ्चनवर्मभृद्द्विपः।
भृशं चकाशे निशि पर्वतो यथा
दावाग्निना प्रज्वलितौषधिद्रुमः॥ 8-54-14(57721)
स वेदनार्तोऽम्बुदनिस्वनो नदं--
श्चरन्भ्रमन्प्रस्स्वलितान्तरोऽद्रवत्।
पपात रुग्णः सनियन्तृकस्तथा॥
यथा गिरिर्वज्रविदारितस्तथा॥ 8-54-15(57722)
हिमावदानेन सुवर्णमालिना
हिमाद्रिकूटप्रतिमेन दन्तिना।
हते रणे भ्रातरि दण्ड आव्रज--
ज्जिघांसुरिन्द्रावरजं धनञ्जयम्॥ 8-54-16(57723)
सतोमरैरर्करप्रभैस्त्रिभि--
र्जनार्दनं पञ्चभिरर्जुनं शितैः।
समर्पयित्वा विननाद चार्दयं--
स्ततोऽस्य बाहू निचकर्त पाण्डवः॥ 8-54-17(57724)
क्षुरप्रकृत्तौ विपुलौ सतोमरौ
शुभाङ्गदौ चन्दनरूषितौ भुजौ।
गजात्पतन्तौ युगपद्विरेजतु--
र्यथोरगौ पर्वतशृङ्गवन्महीम्॥ 8-54-18(57725)
अथाऽर्धचन्द्रेण हतं किरीटिना
पपात दण्डस्य शिरः क्षितिं द्विपात्।
स शोणितार्द्रो निपतन्विरेजे
दिवाकरोऽस्तादिव पश्चिमां दिशम्॥ 8-54-19(57726)
अथ द्विपं श्वेतनगाग्रसन्निभं
दिवाकरांशुप्रतिमैः शरोत्तमैः।
बिभेद पार्थः स पपात नादयन्
हिमाद्रिकूटं कुलिशाहतं यथा॥ 8-54-20(57727)
ततोऽपरं तत्प्रतिमा गजोत्तमा
जिगीषवः संयति सव्यसाचिना।
तथा कृतास्तेऽपि यथैव तौ द्विपौ
ततः प्रभग्नं सुमहद्रिपोर्बलम्॥ 8-54-21(57728)
गजा रथाश्वाः पुरुषाश्च सङ्घशः
परस्परघ्नाः परिपेतुराहवे।
परस्परं प्रस्खलिताः समाहता
भृशं च तत्तद्बहुभाषिणो हताः॥ 8-54-22(57729)
अथार्जुनं स्वे परिवार्य सैनिकाः
पुरन्दरं देवगणा इवाब्रुवन्।
अभैष्म यस्मान्मरणादिव प्रजाः
स वीर दिष्ट्या निहतस्त्वया रिपुः॥ 8-54-23(57730)
न चेत्परित्रास्यदिमाञ्जनान्भया--
द्द्विषद्भिरेवं बलिभिः प्रपीडितान्।
तथाऽभविष्यद्द्विषतां प्रमोदनं
यथा हतेष्वेष्विह नोऽरिसूदन॥ 8-54-24(57731)
इतीव भूयश्च सुहृद्भिरीडिता
निशम्य वाचः सुमनास्तदाऽर्जुनः।
यथाऽनुरूपं प्रतिपूज्य तं जनं
जगाम संशप्तकसङ्घहा पुनः॥ ॥ 8-54-25(57732)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुःपञ्चाशोऽध्यायः॥ 54 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-54-1 उत्तरेण उत्तरतः। वध्यतां वध्यमानानाम्॥ 8-54-3 अनवमः अहीनः॥ 8-54-5 स मागधानां प्रवरोऽङ्कुशग्रहे ग्रहेऽप्रसह्यो विकचो यथा ग्रहः। सपत्नसेनां प्रममाथ दारुणो महीं समग्रां विकचो यथा ग्रहः। इति झ.पाठः। तत्र इत्यर्थः। अङ्कुशग्रहे अङ्कुशधारमे हङ्कियुद्धे इत्यर्थः। ग्रहे आदित्यादिग्रहसमूहे युद्धपरिग्रहे च अप्रसह्यः। विकचः कचोपलक्षितशिरोरहितः केतुरूपी ग्रह इव। विकचो विस्तीर्णो ग्रहो धूमकेतुरूपी उत्पातग्रहः॥ 8-54-8 शुष्मिणा बलवता। स्थूलसुषिरं नलं तृणविशेषम्॥ 8-54-11 सगुणेषुकार्मुकं मौर्वीबाणसहितं धनुः। नियन्तॄन् नियन्तारम्॥ 8-54-12 धनाधनो घतुकमत्तदन्तिनोरिति विश्वः॥ 8-54-13 सहैव युगपत्॥ 8-54-15 स्खलितान्तरः मध्येस्खलतित्यर्थः॥ 8-54-16 इन्द्रावरजं कृष्णम्॥ 8-54-19 अस्तात् अत्वाचलात्॥ 8-54-21 तौ दण्डधारतद्भ्रात्रोर्द्विपौ यथा साध्यक्षौ कृत्तौ छिन्नौ तथा तेपि कृताः॥ 8-54-54 चतुःपञ्चाशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|